Monday, August 14, 2023

शिव नीरांजनम् स्त्रोत्र

शिव नीरांजनम् स्त्रोत्र

हरिः ॐ नमोऽत्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ १॥ ॐ जय गङ्गाधर हर शिव, जय गिरिजाधीश शिव, जय गौरीनाथ । त्वं मां पालय नित्यं, त्वं मां पालय शम्भो, कृपया जगदीश । ॐ हर हर हर महादेव ॥ २॥ कैलासे गिरिशिखरे कल्पद्रुमविपिने, शिव कल्पद्रुमविपिने गुञ्जति मधुकर पुञ्जे, गुञ्जति मधुकरपुञ्जे गहने । कोकिलः कूजति खेलति, हंसावलिललिता रचयति कलाकलापं रचयति, कलाकलापं नृत्यति मुदसहिता । ॐ हर हर हर महादेव ॥ ३॥ तस्मिँल्ललितसुदेशे शालामणिरचिता, शिव शालामपिरचिता, तन्मध्ये हरनिकटे तन्मध्ये हरनिकटे, गौरी मुदसहिता । क्रीडां रचयति भूषां रञ्जितनिजमीशम्, शिव रञ्जितनिजमीशं इन्द्रादिकसुरसेवित ब्रह्मादिकसुरसेवित, प्रणमति ते शीर्षम्। ॐ हर हर हर महादेव ॥ ४॥ विबुधवधूर्बहु नृत्यति हृदये मुदसहिता, शिव हृदये मुदसहिता, किन्नरगानं कुरुते किन्नरगानं कुरुते, सप्तस्वर सहिता । धिनकत थै थै धिनकत मृदङ्गं वादयते, शिव मृदङ्गं वादयते,क्वणक्वपललिता वेणुं मधुरं नादयते । ॐ हर हर हर महादेव ॥ ५॥ कण कण-चरणे रचयति नूपुरमुज्वलितं, शिवनूपुरमुज्वलितं. चक्राकारं भ्रमयति चक्राकारं भ्रमयति, कुरुते तां धिकताम् । तां तां लुप-चुप तालं नादयते, शिव तालं नादयते, अङ्गुष्ठाङ्गुलिनादं अङ्गुष्ठाङ्गुलिनादं लास्यकतां कुरुते । ॐ हर हर हर महादेव ॥ ६॥ कर्पुरद्युतिगौरं पञ्चाननसहितम्, शिव पञ्चाननसहितं, विनयन शशधरमौले, विनयन विषधरमौले कण्ठयुतम् । सुन्दरजटाकलापं पावकयुत फालम्, शिव पावकशशिफालं, डमरुत्रिशूलपिनाकं डमरुत्रिशूलपिनाकं करधृतनृकपालम् । ॐ हर हर हर महादेव ॥ ७॥ शङ्खननादं कृत्वा झल्लरि नादयते, शिव झल्लरि नादयते, नीराजयते ब्रह्मा, नीराजयते विष्णुर्वेद-ऋचं पठते । इति मृदुचरणसरोजं हृदि कमले धृत्वा, शिव हृदि कमले धृत्वा अवलोकयति महेशं, शिवलोकयति सुरेशं, ईशं अभिनत्वा । ॐ हर हर महादेव ॥ ८॥ रुण्डै रचयति मालां पन्नगमुपवीतं, शिव पन्नगमुपवीतं, वामविभागे गिरिजा, वामविभागे गौरी, रूपं अतिललितम् । सुन्दरसकलशरीरे कृतभस्माभरणं, शिव कृत भस्माभरणम्, इति वृषभध्वजरूपं, हर-शिव-शङ्कर-रूपं तापत्रयहरणम् । ॐ हर हर हर महादेव ॥ ९॥ ध्यानं आरतिसमये हृदये इति कृत्वा, शिव हृदये इति कृत्वा, रामं त्रिजटानाथं, शम्भुं विजटानाथं ईशं अभिनत्वा । सङ्गीतमेवं प्रतिदिनपठनं यः कुरुते, शिव पठनं यः कुरुते, शिवसायुज्यं गच्छति, हरसायुज्यं गच्छति, भक्त्या यः श‍ृणुते । ॐ हर हर हर महादेव ॥ १०॥ ॐ जय गङ्गाधर हर शिव, जय गिरिजाधीश शिव, जय गौरीनाथ । त्वं मां पालय नित्यं त्वं मां पालय शम्भो कृपया जगदीश । ॐ हर हर हर महादेव ॥ ११॥


No comments:

Post a Comment

भंते

भंते ( पाली ) थेरवाद परंपरा में बौद्ध भिक्षुओं और वरिष्ठों को संबोधित करने के लिए इस्तेमाल किया जाने वाला एक सम्मानजनक शीर्षक है। धार्मिक शब...