सूर्य उपासना प्रात: स्मरण।
प्रात: स्मरामि खलु तत्सवितुर्वरेण्यम
रूपं हि मण्डल मृचोऽथ तनुर्यजूंषि |
सामानि यस्य किरणा: प्रभवादि हेतुं ब्रम्हाहरात्मकमलक्ष्यमचिन्त्यरूपम || १ ||
प्रातर्नमामी तरणिम तनुवांगमनोभि:
ब्रम्हेन्द्रपूर्वकसुरैर्नुतमर्चितं च।
वृष्टि-प्रमोचनविनी-गृहहेतुभूतं
त्रैलोक्यपालनपरं त्रिगुणात्मकं च || २||
प्रातर्भजामी सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं च |
तं सर्वलोककल्नात्मककालमूर्तिं
गोकंठबंधन विमोचनमादीदेवम || ३ ||
सूर्य उपासना ध्यान मंत्र
ॐ आदित्याय नमः
यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः।।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनोयस्यान्तं न विदुः सुरासुरगणाः देवाय तस्मै नमः ||१||
ॐ आदित्याय नमः
मूर्तित्वे परिकल्पितः शश भृतो वर्मापुनर्जन्मना मात्मेत्यात्म विदां क्रतुश्च यजतां भर्तामर ज्योतिषाम् |
लोकानां प्रलयोद्भवस्थिति विभुः चानेकधायः श्रुतौवाचं नःसददात्वनेक किरणः त्रैलोक्यदीपो रविः ||२||
ॐ आदित्याय नमः
भास्वान्काश्यपगोत्रजो रुणरुचिर्य: सिंहराशीश्वरः षट्विस्थो दश शोभनोगुरुशशी भौमेषु मित्रं सदा। शुक्रो मन्दरिपुकलिंगजनितः चाग्नीश्वरो देवते मध्ये वर्तुलपूर्वदिग्दिनकर: कुर्यात् सदा मंगलम्।।३।।
सूर्य उपासना अर्घ्य मंत्र
एहि सूर्य ! सहस्त्रांशो ! तेजोराशे ! जगत्पते |
अनुकम्पय मां भक्त्या गृहाणायँ नमोस्तुते ||
तापत्रयहरं दिव्यं परमानन्दलक्षणम् |
तापत्रयविमोक्षाय तवायँ कल्प्याम्यहम् ||
नमो भगवते तुभ्यं नमस्ते जातवेदसे |
दत्तमर्घ्य मया भानो ! त्वं गृहाण नमोस्तुते ||
अर्घ्यं गृहाण देवेश गन्धपुष्पाक्षतैः सह ।
करुणां कुरु मे देव गृहाणायँ नमोस्तुते ||
नमोस्तु सूर्याय सहस्त्रभानवे नमोस्तु वैश्वानर- जातवेदसे |
त्वमेव चार्घ्य प्रतिगृह्ण देव ! देवाधिदेवाय नमो नमस्ते ||
सूर्य उपासना क्षमा प्रार्थना
उपसन्न्स्य दीनस्य प्रायश्चित्तकृताञ्जले: |
शरणं च प्रपन्नस्य कुरुष्वाद्य दयां प्रभो ||
परत्र भयभीतस्य भग्नखंडव्रतस्य च |
कुरु प्रसादं सम्पूर्णं व्रतं सम्पूर्णमस्तु में ||
यज्ञच्छीद्रम तपश्छिद्रं यच्छीद्रम पूजने मम |
तत्सर्वमच्छीद्रमस्तु भास्करस्य प्रसादतः ||
जिगरम जयगिष्य जिगर:
जय हिन्द च जय गुरुदेव दत्तात्रेय च जय हिन्द
No comments:
Post a Comment